डा.उमेशप्रसादघिमिरे/ काष्ठमण्डप ।
लखनऊ विश्वविद्यालयस्य संस्कृतविभागाध्यक्षत्वेन प्राध्यापनरतया प्रा.डा.रीतातिवारीमहाभागया सप्तदिवसीयं संस्कृतसम्भाषणप्रशिक्षणं प्रदत्तम् । एकासीत्यधिकद्विसहस्रतमस्याषाढमासस्य त्रयोदशदिनाङ्कात् एकोनविंशतिदिनपर्यन्तं(वि.सं.२०८१/०३/१३-१९) संस्कृतप्रशिक्षणकार्यक्रमो नेपालसंस्कृतविश्वविद्यालयान्तर्गते काष्ठमण्डपस्थे वाल्मीकिविद्यापीठे पञ्चाशदधिकानां प्राध्यापकानां , कर्मकराणां , छात्राणाञ्च समुत्साहमूलिकायां सहभागितायां सञ्चालित आसीत् ।
तत्र वाल्मीकिविद्यापीठे प्राध्यापिकाया: सरलसंस्कृतसम्भाषणप्रशिक्षणेन , प्रशिक्षणशैल्या वा सर्वेsपि प्रशिक्षार्थिनः सम्यक् सन्तृप्ताः , सन्तुष्टाः , समाह्लादिताश्चासन्निति वाल्मीकिविद्यापीठस्य प्राचार्यमहाभागैः संसूचितम् । विद्यापीठे शास्त्रव्याख्याने , पाठने , पठने च निपुणानां समेषामपि प्राध्यापकानां छात्राणाञ्च सरलतया संस्कृतसम्भाषणसौकर्याभिवृद्ध्यर्थं वाल्मीकिविद्यापीठेनायं संस्कृतप्रशिक्षणकार्यक्रम आयोजित इति प्राचार्यैः ढकालमहाभागैर्निगदितम् । एतादृशेन सामूहिकेन कार्येणासम्भवमपि सम्भवं कर्तुं खलु वयं शक्नुम इति सहप्राचार्याभिः सहप्रा.डा.रमाभट्टराईमहोदयाभि:प्रकटितम्।
सप्ताहव्यापिनः कार्यक्रमस्य प्रथमे दिवसे प्रशिक्षिकायाः प्रा.डा. रीता तिवारी महोदयायाः स्वागताभिनन्दनमायोजकेन वाल्मीकिविद्यापीठेन विहितमासीत् । तत्र कक्षायां तदेतत् – अत्र – तत्र – अन्यत्र – सर्वत्र – एकत्रेत्यादिशब्दानां प्रयोगविषये सम्यक्तया प्रशिक्षणं विहितम् , मुखाभ्यासाय च सर्वे प्रशिक्षार्थिनः प्रेरिताः ।
चतुर्दशदिनाङ्के द्वितीये दिवसे ” पठत संस्कृतम् – वदत संस्कृतम् ” इति प्रशिक्षणसम्बद्धं गीतं गीत्वा प्रशिक्षिकया कक्षा प्रारब्धाSSसीत् । तत्र ‘प्रोञ्छति – रोपयति – चूर्णयति – गणयति – चित्रयति – कूजति – गर्जति – चुम्बति ‘ इत्यादिशतपरिमितानां क्रियापदानां सम्यगभ्यासः कृत आसीत् । एवं वृत्तिबोधकानां शब्दानाम् , कथमस्ति ? किमर्थम् ? कुतः?
इत्यादिप्रश्नवाचकशब्दानाञ्च प्रयोगविषयः प्रशिक्षितः ।
पञ्चदशदिनाङ्के तृतीये दिवसे ‘ तसिल् प्रयोगः , ह्यस्तन – अद्यतन – श्वस्तन इत्यादिशब्दप्रयोगः , अतः पदप्रयोगः , चेत् – नोचेत् प्रयोगश्चेत्यादिविषयाः प्रशिक्षिता आसन् ।
षोडशदिनाङ्के चतुर्थे दिवसे च प्राध्यापिकया अत – यत प्रयोगः , अद्य – आरभ्यप्रयोगः , क्त्वाल्यप्प्रत्ययप्रयोगः, करणकारकप्रयोगः, विनायोगे तृतीयाप्रयोगश्चेत्यादिसम्भाषणसम्बद्धविषयाः सम्यक् प्रशिक्षिता आसन् ।
सप्तदशदिनाङ्के पञ्चमे दिवसे तुमुन्प्रत्ययप्रयोगः, समयबोधकपदप्रयोगः, रुचिबोधकपदप्रयोगः, आकारबोधकपदप्रयोगः, शरीराङ्गभिधानपदप्रयोग:, इतोऽपि-सम्यक्-किञ्चित्-इतः पूर्वम्-इतः परम्-यद्यपि-तथापीत्यादिपदप्रयोगः, कृतेयोगे षष्ठीति- प्रयोगश्चेत्यादिविषयाः प्रशिक्षिकया प्रशस्तोदाहरणप्रदर्शनपूर्वकं पाठिता आसन्।
अष्टादशदिनाङ्के षष्ठे दिवसे प्रायश:-प्रयोगः, निश्चयेन-प्रयोगः, इवप्रयोग:, आरम्भे-अन्ते इति प्रयोगः,किम्-किञ्चित-किन्तु-कति-कियत् प्रयोगश्चेत्यादिविषयाः सम्यक् प्रशिक्षिता आसन्। एकोनविंशतिदिनाङ्के सप्तमे दिवसे प्राध्यापिकया यावत्-तावत्-यया-तया-यदा-यः-सः-या-सा-यत्-तत् शब्दानां प्रयोगविषयाः सम्यक् पाठिता आसन्।
प्रशिक्षणान्ते भारतदेशात् लखनऊविश्वविद्यालयात् पाशुपतक्षेत्रान्तर्गतं काष्ठमण्डपस्थं वाल्मीकिविद्यापीठं समागत्य सप्तदिवसपर्यन्तं प्रशिक्षणं प्रदात्र्यै प्रा.डा. रीतातिवारीमहाभागायै आयोजकपक्षत विद्यापीठस्य प्राचार्यै प्रा. डा.भागवतढकालमहोदयैः हार्दं कार्तज्ञ्यं विनिवेद्य सम्मानपत्रञ्च समर्पितमासीत्। संस्कृतप्रशिक्षणमाध्यमेन यज्ज्ञानं मार्गदर्शनञ्च सम्प्राप्तं तस्य कृते प्रशिक्षिकाचार्या प्रा. डा. रीताकुमारीमहोदया सादरं वन्दनीयास्तीति विद्यापीठस्य सहप्राचार्यया डा. रामाभट्टराईमहाभागया प्रोतालङ्करणम्(पोते-कण्ठभूषणम्), छत्रञ्चोपहारं तस्यै प्रदाय धन्यवादज्ञापनं विहितमासीत्। एतत्प्रशिक्षणसंयोजकाः डा. प्रेमराजन्यौपानेमहाभागश्च धन्यवादार्हा सन्तीति सहप्राचार्यैः प्राध्यापकै अच्युतप्रसादलामिछानेमहाभागैश्च प्राध्यापिकायै प्रशिक्षिकायै तिवारीमहाभागायै कार्तज्ञ्यं प्रकटितम्।
यैः यैर्महानुभावैः संस्कृतप्रशिक्षणसञ्चालनार्थमावश्यकं वातावरणं निर्मितम् , अवदानञ्च कृतम् ते सर्वेsपि समुत्साहवर्धकाः सज्जना: सुरभारतीसेवका: सादरं प्रणम्यन्ते इत्युक्त्वा प्रशिक्षार्थिना श्रीमता हिमालयभट्टराईमहोदयेन संस्कृतविदूष्यै प्रशिक्षिकायै प्रा.डा.रीतातिवारीगुरुमात्र्यै सम्मानात्मकशब्दसुमनानि समर्पितानि । लेखकेनानेनापि प्रशिक्षिकाः प्रा. डा. रीतातिवारीमहाभागाः पुनः पुनः प्रणम्यन्ते, नमस्यन्ते, संस्मर्यन्ते च। जयतु संस्कृतम्। जयतु संस्कृतसम्भाषणप्रशिक्षणम् ॥