back to top
९ साउन २०८१, बुधबार
IPL 2024
IPL 2024
९ साउन २०८१, बुधबार
IPL 2024
spot_img

वाल्मीकिविद्यापीठे राष्ट्रियसंस्कृतकविगोष्ठी सम्पन्ना

Workplace

उमेश घिमिरे
काष्ठमण्डप।
असीत्यधिकद्विसहस्रतमवैक्रमाब्दस्याषाढमासस्य पञ्चदशदिवसे [२०८०/०३/१५] वाल्मीकिविद्यापीठस्य सभाकक्षे ´जयतु संस्कृतम्` इति संस्थया संस्कृतकविगोष्ठी समायोजिता । अस्या: कविगोष्ठ्या: सभाध्यक्षत्वेन जयतु संस्कृतमिति संस्थाया उपाध्यक्षाः प्रा.डा.विष्णुप्रसाददेवकोटामहाभागा: विराजमाना आसन् चेत् प्रमुखातिथित्वेन नेपालसंस्कृतविश्वविद्यालयस्य शिक्षाध्यक्षाः प्रा.डा.भीमप्रसादखतिवडामहाभागा: जुमयन्त्रमाध्यमेन समुपस्थिता आसन् । विशिष्टातिथित्वेन च वाल्मीकिविद्यापीठस्य प्राचार्या: प्रा.डा. भागवतढकालमहाभागा विराजमाना आसन् । सभाया: शोभावर्धका: संस्कृतवाङ्मयप्रकटितवैदुष्या विद्वद्वरेण्या: प्राध्यापका: दुर्गाप्रसाददाहालगुरव:, प्राध्यापका: रामहरिदाहालगुरव:, प्रा.डा.काशीनाथन्यौपानेगुरव:, वाल्मीकिविद्यापीठसमितेरध्यक्षा: प्राध्यापका: घनश्यामभण्डारीमहाभागा:, साहित्यविषयस्य विभागाध्यक्षा: प्रा.डा. नुरापतिपोखरेलगुरव:, प्रा.डा.ध्रुवभट्टराईगुरव:, प्रा.डा. भीमप्रसादकण्डेलगुरव:, प्रा.डा.जीवनाधिकारिगुरव:, संस्थाया: सदस्यसचिवा: प्रा.डा. नवराजकट्टेलमहाभागा:, प्रा.डा. धनेश्वरनेपालमहाभागा:, प्रा.डा. मुकुन्दप्रसादलामिछानेमहाभागाश्चासन् । मुकुन्दप्रसादचालिसे-गोविन्दप्रसादघिमिरे- चिन्तामणिभट्टराई-माधवप्रसादघिमिरे-हिमालयभट्टराई-अर्जुनदाहाल-रामप्रसादलामिछाने-उमेशप्रसादघिमिरे-दिग्विजय-अर्जुनखतिवडा-कृष्णमणिपहाडी-नरेशपण्डित-अञ्जनढुङ्गेल-सविनाकोइराला-दुर्गाप्रसादनेउपाने-आकाशनीलमित्याख्यानेककविवरा: सभायां विभ्राजमाना आसन् । सभायां ये ये संस्कृतसमुपासका: शताधिका: विद्वांस: सशरीरं प्रविधिमाध्यमेन वा समुपस्थिता: प्रायस्तै: सर्वैरपि कविवरै: स्वकीया सुन्दरी संस्कृतकविता श्राविता । अतस्तत्सभायां भावगभीरा: विविधछन्दोनिबद्धा आध्यात्मिकसामाजिकराजनीतिकादिविषयसम्बद्धास्त्रिंशदधिकाः कविता: सभायां कविभिर्वाचिता आसन् । द्वाददशवादनात् प्रारव्धेयं कविगोष्ठी पञ्चवादनपर्यन्तं सञ्चालितासीत् । अस्या: कविगोष्ठ्याश्च सञ्चालनं समुद्घोषणं वा संस्कृतसमुपासकेनोपप्राध्यापकेन आकाशनीलम्-नामकेन विदुषा विहितमासीत् । तत्र प्राध्यापकैर्मुकुन्दप्रसादलामिछानेमहाभागै: समुपस्थितानां काव्यकाराणां स्वागताभिनन्दनं विहिमासीत्, सदस्यसचिवैः प्राध्यापकै: नवराजकट्टेलमहाभागै: जयतुसंस्कृतमिति संस्थाया उद्देश्यं प्रकाशितमासीत् । प्रविधिमाध्यमेन सभायां सङ्घटितै: प्रमुखातिथिवर्यैर्नेपालसंस्कृतविश्वविद्यालयशिक्षाध्यक्षै: प्रा.डा.भीमप्रसादखतिवडामहाभागै: ´जयतु संस्कृतम्`इति संस्थाया: गौरवपूर्णेतिहासमहिमागानपूर्वकं संस्कृतकविगोष्ठ्या: महती प्रशंसा विहिता । जयतु संस्कृतसंस्थया सह नेपालसंस्कृतविश्वविद्यालयस्य समन्वयादपि एतादृशा: विविधकार्यक्रमा: सञ्चालनीया: भवन्तीत्यत्र सर्वैरवि सम्बद्धपक्षैर्विचारणीमिति च शिक्षाध्यक्षैर्निगदितमासीत् । अन्ते सभाया अध्यक्षतां कुर्वद्भिरादरणीयैर्गुरुभिर्विष्णुप्रसाददेवकोटामहाभागै: समुपस्थितेभ्यो विद्वद्भ्यः कविवर्येभ्यश्च कृतज्ञताज्ञापनपुरस्सरं धन्यवादं प्रदाय सभा विसर्जिता । नैपालकानामनेकेषां संस्कृतविदुषां कविवर्याणाञ्च समुपस्थित्या सभेयमतीव गौरवमयी अविस्मरणीया चासीत् ।

Workplace
spot_img
spot_img
spot_img
यो खबर पढेर तपाईलाई कस्तो महसुस भयो ?
  • खुसी (0%)
  • दुःखी (0%)
  • अचम्मित (0%)
  • हाँस्यास्पद (0%)
  • आक्रोशित (0%)
spot_img
spot_img
spot_img
spot_img
प्रतिक्रिया दिनुहोस्

तपाईको समाचार आफै पाेष्ट गर्नुहाेस्

समाचारको फोटो यहाँ Upload गर्नुहोस्

सम्बन्धित खबर

लोकप्रिय

सामाजिक सञ्जालमा हामी

भर्खरै

छुटाउनुभयो कि ?