संस्कृतकविसम्मेलनस्य सर्वेक्षणम् _डा.उमेशप्रसादघिमिरे

काष्ठमण्डप ।

२०८१/०२/३० तमे वैक्रमाव्दे काष्ठमण्डपाधित्यकायां विद्यमाने चन्द्रागिरिस्थाने विद्याधिपतिभालेश्वरसान्निध्ये जयतु संस्कृतमिति संस्थया विशिष्टं संस्कृतकविसम्मेलनं समायोजितम् । नेपालसंस्कृतविश्वविद्यालयस्य केन्द्रीयप्राध्यापकसङ्घस्य सभापतिना प्रा.डा. मुकुन्दप्रसादलामिछानेमहाभागेन सञ्चालिताया उक्तसभाया अध्यक्षत्वं संस्थाया अध्यक्षेण बद्रीप्रसादपोखरेलमहाभागेन निर्व्यूढमासीत् चेत् प्रमुखातिथ्यञ्च संस्कृतविद्यापारङ्गतेन संस्कृतविश्वविद्यालयस्य कुलसचिवचरेण प्राध्यापकनीलमणि- ढुङ्गानामहाभागेन स्वीकृतमासीत् । सभायां विशिष्टातिथित्वेन संस्कृतविद्याधुरन्धरा विद्वांश: प्राध्यापकरामहरिदाहाल- प्रा.डा.विष्णुप्रसाददेवकोटा- डा.नारायणवराल- प्रा.डा. जीवनाधिकारि-प्रा.डा.नुरापतिपोख्रेल-विशिष्टकविछत्रपतिदाहालप्रथितकविमुकुन्दप्रसादचालिसे-संस्कृतमाध्यमिकविद्यालयप्रधानाध्यापकशिवराजाधिकारि-नेपालसर्वकारसहसचिवचरयदुपन्थिमहाभागा: समुपस्थिता आसन् ।

नेपालसंस्कृतविश्वविद्यालयकेन्द्रीयप्राध्यापकसङ्घमहासचिवेन डा. नारायणप्रसादवरालमहोदयेन वैदिकमङ्गालाचरणं विधाय, प्रमुखातिथिना सरस्वत्या: चित्रे पुष्पमालां समर्प्य, सर्वैरपि समुपस्थितै: संस्कृतकविजनै: भालेश्वरं सम्प्रार्थ्य च प्रारब्धायां संस्कृतकविगोष्ठ्यामायोजकसंस्थाया: सदस्यसचिवेन प्रा.डा. नवराजकट्टेलमहोदयेन समस्तान् समुपस्थितान् संस्कृतकविवरान् प्रति सुष्ठुवाक्कुसुममाध्यमेन स्वागताभिनन्दनं विहितमासीत् । कट्टेलमहाभागेन जयतु संस्कतमितिसंस्थया समायोजितस्य संस्कृतकविसम्मेलनस्यैतिहासिक- परिचयोपस्थानपूर्वकं कविसम्मेलने समागतानां समेषां विदूषां कवीनां समुपस्थितिं प्रति हार्दा कृतज्ञता च ज्ञापिता । आध्यात्मिकभावोद्बोधके प्राकृतिकसौन्दर्यपरिपूर्णे चन्द्रगिरौ भालेश्वरमन्दिरपरिसरस्थविशिष्टसभाकक्षे समायोजितमेतत्- कविसम्मेलनमत्यन्तं भव्यं सभ्यं रमणीयञ्च सञ्जातमिति सर्वैरपि सहभागिकविजनैर्मुक्तकण्ठै: प्रशंसितम् ।

तत्र कविसम्मेलने वाचितानां संस्कृतकवितानां क्रमश: संक्षिप्तं विवरणमत्र समुपस्थाप्यते – १. हरिहरप्रदीपघिमिरेकविना ´नेपालजननीं नुम:` इति शीर्षकीया हरिहरवर्णनपरा राष्ट्रभक्तिभावपूर्णा कलात्मिका कविता वाचितासीत् । २. बद्रीप्रसादपोखरेलकविना ´कस्मै प्रश्नं करोम्यहम् ?` इति शीर्षकीया व्यङ्ग्यात्मिका कविता श्रावितासीत् । ३. सुजनकाफ्लेकविना ´जलजलेश्वरगुरुकुलम्` शीर्षकीया गुरुकुलसंरक्षणसम्बद्धा सुमधुरा कविता गीतासीत् । ४. शम्भुदुर्गमनिरौलाकविना भगवत्स्तोत्रमयी कविता प्रस्तुतासीत् । ५. कविना सदाशयगौतमेन पाशुपतक्षेत्रस्य नेपाल- वेदविद्याश्रमस्याध्ययनाध्यापनपर्यावरणवर्णनसम्बद्धा ´नेपालविद्याश्रम:` इति शीर्षकीया कविता सुगीतासीत् । ६. सुकविना छत्रपतिदाहालमहाभागेन प्राकृतिकविषयसम्बद्धा ´चातकसंवेदना` शीर्षकीया प्रतीकात्मिका दार्शनिकी कविता श्रावितासीत् । ७. आशिषढुङ्गेलकविना गुरुस्तुतिपरा ´ईश्वरानन्दब्रह्मचारी`(गलेश्वरबाबा)इति शीर्षकीया सुमधुरा कविता गीतासीत् । ८. कौशलनिरौलाकविना देशभक्तिपूर्णा कलात्मिका भावगभीरा ´जन्मभूमिनेपाल:` शीर्षकीया मधुरा कविता वाचितासीत् । ९. कविना डा. नारायणप्रसादबरालेन संस्कृतकविसम्मेलनसम्बद्धा ´भालेश्वरं वन्दे` इति शीर्षकीया सुन्दरी कविता श्रावितासीत् । १०. कविना पवनाधिकारिणा नेपालदेशानुरूपा राष्ट्रियभावसम्बलिता ´मम देशो नेपाल:` इति शीर्षकीया सुन्दरी कविता वाचितासीत् । ११. यदुपन्थिकविना कार्यक्रमस्थलचन्द्रगिरिविषयसम्बद्धा ´भालेश्वरो रक्षतु` इति शीर्षकीयात्यन्तमनोरमा कलात्मिका कविता श्रावितासीत् । १२. कविना विमलचन्द्रेण सामयिकधर्माचारविषयसम्बद्धा ´कृपया मुच्यतां कृष्ण:` इति शीर्षकीया चेतोहरा कविता श्रावितासीत् । १३. कविना विजयपण्डितेन ´पिवतु सर्वदा संस्कृतां सुधाम्` इति शीर्षकीया संस्कृतविषयसम्बद्धा कलात्मिका भावपूर्णा कविता वाचितासीत् । १४. प्रा.डा. नुरापतिपोख्रेलकविना चन्द्रगिरिविषयसम्बद्धा ´चन्दनगिरि:` इति शीर्षकीया भावगभीरा कलात्मिका दार्शनिकी कविता श्रावितासीत् । १५. उपप्राध्यापकेन चिन्तामणिभट्टराईकविना कौशिकसभ्यतासम्बद्धा ´कौशिक-स्तुति:` इति मनोहरा सुन्दरी देशभक्तिपूर्णा कविता श्रावितासीत् । १६. तेनैव कविना पुन: प्राध्यापकस्य दुर्गाप्रसाददाहालस्य सुकवे: राजनीतिसम्बद्धा विशिष्टकलाभावसमन्विता ´राजनेता मोदी` इति शीर्षकीया कविता सुमधुरेण स्वरेण गीता आसीत् । १७. डा. कृष्णप्रसादभट्टराईकविना भालेश्वरमहादेवस्तुतिपरा कलापूर्णाध्यात्मभावगभीरा मनोरमा दार्शनिकी कविता वाचितासीत् । १८. हिमालयभट्टराईकविना धर्मदर्शनसम्बद्धा कलापूर्णा भावगभीरा ´त्वमेव सर्वं मम देव देव` इति शीर्षकीया सुन्दरी कविता समुच्चस्वरेण सुगीतासीत् । १९. कविना केशवगौतमेन जन्मस्थानमहिमान्विता ´जन्मभूमि: कालिकोट` इति शीर्षकीया मनोरमा कविता वाचितासीत्। २०. रविसुवेदि कविना राष्ट्रसौन्दर्याभिव्यञ्जनपरा ´नेपालशोभा` इति शीर्षकीया देशभक्तिभावपूर्णा कलात्मिका कविता श्रावितासीत् । २१. प्रा.डा. भीमप्रसादकण्डेलकविना कलापूर्णा भावगभीरा भालेश्वरमहादेवसम्बद्धा ´हरस्व भालेश्वर हृद्-प्रमादम्` इति शीर्षकीया दार्शनिकी कविता सुगीतासीत् । २२.लब्धप्रतिष्ठेन मुकुन्दप्रसादचालिसेकविना देवभूमिनेपालविषयात्मिका विशिष्टकलाभावसमन्विता ´स्वदेशमहिमा` इति शीर्षकीया सुन्दरतमा कविता श्रावितासीत् । २३.प्रा.डा. नवराजकट्टेल- कविना महाराजपृथिवीनारायणशाहदेवविषयात्मिका ´किमचिन्तयत्` इति शीर्षकीया देशभक्तिभावपूर्णा कलात्मिका भावगभीरा सुन्दरी कविता श्रावितासीत् । २४. स्थापितकवे: प्रा.डा. जगन्नाथशर्मण: ´शुक्ला` इति शीर्षकीया गण्डकसभ्य- ताविषयिणी कलापूर्णा भावगभीरा कविता कविना वसान्ताचार्येण वाचितासीत् । २५. प्राध्यापकेन रामहरिदाहालकविना युवजनपलायनविषयसम्बद्धा `नैव शक्नोमि वक्तुम्´ इति शीर्षकीया कलानिपूणा भावगभीरा मार्मिकी सुन्दरी कविता श्रावितासीत् । २६. संस्कृतकवि- सम्मेलनसम्पन्नाय सम्पूर्णव्यवस्थासम्पादयित्रा सचिवचरेण कृष्णज्ञवालीकविना सम्प्रेषिता ´सुशासनम्` इति शीर्षकीया भावपूर्णा कविता डा.उमेशप्रसादघिमिरेकमलेन वाचितासीत् । २७. प्रा.डा. ध्रुवप्रसादभट्टराईकवेरतिशयव्यङ्ग्यमूला दुर्जनप्रवृत्तिचित्रणपरा कलात्मिका भावपूर्णा ´कलिभारतम्` इति शीर्षकीया च कविता डा.उमेशप्रसादघिमिरेकवीतरेणैव वाचितासीत् । २८. प्राध्यापकेन विष्णुप्रसाददेवकोटाकविना नेपालदेशस्य युवजनविदेशपलायनविषयसम्बद्धा सामयिकविभीषणस्थितिप्रतिपादिका नेपालसर्वकाराय सन्देशप्रदानमूलिका ´युवपलायनम्` इति शीर्षकीया कलात्मिका देशभक्तिभावपूर्णा कविता श्रावितासीत् । देवकोटामहाभागेन नेपालभूमेर्या व्यथा सा स्वकीयकवितायां कुशलतया समभिव्यक्तासीत् । २९. प्राध्यापकेन नीलमणिढुङ्गानाकविना संस्कृतविषयसम्बद्धा ´जयतु संस्कृतम्` इति शीर्षकीया विशिष्टकलापूर्णा भावगभीरा कविता श्रावितासीत् । ३०.सुकविना प्रा.डा.जीवनाधिकारिणा सामाजिकविकृतिविसङ्गतिभ्रष्टाचारविषयसम्बद्धा ´नायाति कविता` इति शीर्षकीया ध्वन्यर्थमूला सुन्दरी कविता सुमधुरेण स्वरेण गीतासीत् । ३१. कविना शिवराजाधिकारिणा भगवत्- स्त्तोत्रमयी कविता वाचितासीत् । ३२. प्रा.डा.मुकुन्दप्रसाद- लामिछानेकविना सामयिकविषयिणी ´राममन्दिरमहो विराजते` इति शीर्षकीया विशिष्टकलाभावसमन्विता मधुरा कविता श्रावितासीत् । एवं समुपस्थितैर्द्वित्रिंशत्सङ्ख्यकै: संस्कृतकविवरैस्तत्र सम्मेलने स्वस्वकवितावाचनावसरो लब्ध आसीत् ।

सम्मेलनस्यान्ते च प्रमुखातिथिना नीलमणिढुङ्गानामहाेदयेन ´जयतु संस्कृतम्` इति संस्थया संस्कृतसंवर्धनविधौ य: प्रयासो विधीयमानो$स्ति स स्तुत्यो$स्तीति सा संस्था धन्येति निगदितम् । अस्मिन् समये सर्वे जना अर्थस्य वशगा: सन्ति , एतादृशकार्यक्रमसञ्चालनार्थमर्थाभावात् काठिन्यमस्ति तथाप्यनया संस्थया स्तरीयानुपमा च सभा समयोजितास्तीति सर्वे सहयोगिन: सहभागिन आयोजकाश्च धन्यवादार्हा इति प्रशंसापूर्विका प्रसन्नता प्रमुखातिथिना समभिव्यक्तासीत् । सभाया अन्ते सभाध्यक्षत्वमलङ्कुर्वता प्रा.डा.विष्णुप्रसाद- देवकोटामहाभागेन समुपस्थितान् कविवरान् , समस्तान् सहयोगप्रदातृृृन्, प्रमुखातिथिम्, विशिष्टातिथिन्, शुभेच्छुकान् सर्वान्प्रति कार्तज्ञ्यं समर्प्य नामकरणादारभ्य मरणपर्यन्तं संस्कृतस्यापरिहार्यत्वादस्माभि: संस्कृतं कदापि नैवोपेक्षणीयमिति समुद्घोष्य संस्कृतकविसम्मेलनं विसर्जितम् ।

एवं जयतु संस्कृतमितिसंस्थया भालेश्वरसन्निकटे समायोजिते संस्कृतकविसम्मेलने कैश्चित्कविजनैर्देशमहिमा प्रकटित:, कैश्चिद् गण्डकीवर्णनं विहितम् , कैश्चिद् भालेश्वरवर्णनं कृतम्, कैश्चित् सदाचार: समुपवर्णित:, कैश्चिद् भ्रष्टाचारो वर्णित:, कैश्चिद् गुरुकुलमहत्त्वमुपपादितम्, क‌ैश्चिन्नैपालकप्रकृतिचित्रणं कृतम् , कैश्चिद्युववर्गस्य स्वदेशात् पलायनं प्रदर्शितम् , कैश्चित् स्वदेशसमुन्नत्यै समर्पितजीवनानां महात्मनां प्रशंसा विहिता, कैश्चित् स्वधर्मसंस्कृते: संस्कृतस्य च महत्ता गीता । सर्वा अपि कविता: सुन्दर्य:, मनोरमा: , काव्यतत्त्वपरिपूर्णा:, शास्त्रीय- छन्दोबद्धाश्चासन्निति कविसम्मेलनं भव्यं दिव्यं रम्यं सभ्यमविस्मरणीयञ्चासीदिति मूल्याङ्कनं कर्तुं पार्यते । जयतु संस्कृतम् ।

spot_img
यो खबर पढेर तपाईलाई कस्तो महसुस भयो ?
icon
खुसी
icon
दुःखी
icon
अचम्मित
icon
हाँस्यास्पद
icon
आक्रोशित
प्रतिक्रिया दिनुहोस्
प्रतिक्रियाहरु ()
नाम चार शब्द भन्दा बढि लेख्न मिल्दैन
spot_img
spot_img
spot_img
spot_img
spot_img
spot_img
spot_img
तपाईको समाचार आफै पाेष्ट गर्नुहाेस्

कृपया प्रतिक्षा गर्नुहोस...

कृपया समाचारको फोटो अनिवार्य अपलोड गर्नुहोस् ।

सम्बन्धित खबर

क्यालेन्डर

ट्रेन्डिङ

भर्खरै

बालेन सम्झिँदै सांसद सीताले सुनाइन् संसदमा कविता

गलेनन् बालेन, चल्न थाल्यो संसद्

विद्यार्थीको मोबाइल पानीमा डुबाएर नष्ट गरिएको घटनाविरुद्ध सर्वोच्चमा रिट दर्ता

दरबार हत्याकाण्डको अनुसन्धान अघि बढाउने गृहमन्त्रीको निर्णय

गृहमन्त्री सुदन गुरुङको कमब्याक, आजै शपथको तयारी

आगामी आर्थिक वर्षमा अर्घाखाँचीका स्थानीय तहलाई ३ अर्बभन्दाबढि अनुदान, कुन पालिकालाई कति ?

सामाजिक सञ्जाल

छुटाउनुभयो कि ?